|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.165. अध्यायः 165
Mahabharata - Shanti Parva - Chapter Topics
स्वस्वाभिमतार्थकथनाय चोदितैर्विदुरार्जुनभीमसेनैः क्रमेण धर्मार्थकामेषु अभिष्टुतेषु युधिष्ठिरेण मोक्षप्रशंसनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-165-0x(5847)(71624)
इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः।
पप्रच्छावसथं गत्वा भ्रातृन्विदुरपञ्चमान्॥ 12-165-1(71625)
धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः॥ 12-165-2(71626)
कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै।
संपृष्टा नैष्ठिकं वाक्यं यथाबद्वक्तुमर्हथ॥ 12-165-3(71627)
ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्।
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन्॥ 12-165-4(71628)
विदुर उवाच। 12-165-5x(5848)
बहुश्रुतं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा।
भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः॥ 12-165-5(71629)
एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम्॥ 12-165-6(71630)
धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः।
धर्मेण देवा दिवि च धर्मे चार्थः समाहितः॥ 12-165-7(71631)
धर्मो राजन्गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते।
कामो यवीयानिति च प्रवदन्ति मनीषिणः॥ 12-165-8(71632)
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना।
तथा च सर्वभूतेषु वर्तितव्यं यतात्मना॥ 12-165-9(71633)
वैशम्पायन उवाच। 12-165-10x(5849)
समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः।
ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः॥ 12-165-10(71634)
कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते।
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च॥ 12-165-11(71635)
अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः।
निवृत्तेऽर्थे न वर्तेते धर्मकामाविति श्रुतिः॥ 12-165-12(71636)
विषहेतार्थवान्धर्ममाराधयितुमुत्तमम्।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः॥ 12-165-13(71637)
अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः।
अर्थसिद्ध्या विनिर्वृत्तावृभावेतौ भविष्यतः॥ 12-165-14(71638)
तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः।
ब्रह्माणमिव भूतानि सततं पर्युपासते॥ 12-165-15(71639)
जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्॥ 12-165-16(71640)
काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः॥ 12-165-17(71641)
`अर्थार्थिनः सन्ति नित्यं परितष्यन्ति कर्मभिः।'
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः।
कुलप्रत्यागमाश्चैके स्वंस्वं धर्ममनुष्ठिताः॥ 12-165-18(71642)
आस्तिका नास्तिकाश्चैव नियताः संयमे परे।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता॥ 12-165-19(71643)
भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्।
एतन्मतिमतांश्रेष्ठ मतं मम यथातथम्।
अनयोस्तु विबोध त्वं वचनं शक्रकण्वयोः॥ 12-165-20(71644)
वैशम्पायन उवाच। 12-165-21x(5850)
तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्।
नकुलः सहदेवश्च वाक्यमूचतुरुत्तमम्॥ 12-165-21(71645)
आसीनश्च शयानश्च विचरन्नपि वा स्थितः।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि॥ 12-165-22(71646)
अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः॥ 12-165-23(71647)
योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः।
मध्विवामृतसंसृष्टं तस्मादेतौ मताविह॥ 12-165-24(71648)
अनर्थस्य न कामोस्ति तथाऽर्थोऽधर्मिणः कुतः।
तस्मादुद्विजले लोको धर्मार्थाभ्यां बहिष्कृतात्॥ 12-165-25(71649)
तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि॥ 12-165-26(71650)
धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम्।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम्॥ 12-165-27(71651)
वैशम्पायन उवाच। 12-165-28x(5851)
विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ।
भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे॥ 12-165-28(71652)
नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते॥ 12-165-29(71653)
कामेन युक्ता ऋषयस्तपस्येव समाहिताः।
पलाशाः शाकमूलाशा वायुभक्षाः सुसंयताः॥ 12-165-30(71654)
वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः।
श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे॥ 12-165-31(71655)
वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा।
देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु॥ 12-165-32(71656)
समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः।
कामो हि विविधाकारः सर्वं कामेन संततम्॥ 12-165-33(71657)
नास्ति नासीन्न भविता भूतं काममृते परम्।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ॥ 12-165-34(71658)
नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः।
श्रेयस्तैलं न पिण्याको घृतं श्रेय उदश्वितः॥ 12-165-35(71659)
श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः।
पुष्पतो मध्विव परं कामात्संजायते सुखम्।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः॥ 12-165-36(71660)
[नाकामतो ब्राह्मणाः स्वन्नमर्था
न्नाकामतो ददति ब्राह्मणेभ्यः।
नाकामतो विविधा लोकचेष्टा
तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः॥] 12-165-37(71661)
सुचारुवेषाभिरलंकृताभि
र्मदोत्कटाभिः प्रियवादिनीभिः।
रमस्व योषिद्भिरुपेत्य कामं
कामो हि राजन्परमाभिरामः॥ 12-165-38(71662)
बुद्धिर्ममैषा परिखास्थितस्य
माभूद्विचारस्तव धर्मपुत्र।
स्वात्संहितं सद्भिरफल्गुसार
मसस्तवाक्यं परमानृशंसम्॥ 12-165-39(71663)
वर्मार्थकामाः सममेव सेव्या
यो ह्येकभक्तः स नरो जघन्यः।
द्वयोस्तु सक्तं प्रवदन्ति मध्यमं
स उत्तमो योऽभिरतस्त्रिवर्गे॥ 12-165-40(71664)
प्राज्ञः सुहृच्चन्दनसारलिप्तो
विचित्रमाल्याभरणैरुपेतः।
ततो वचः संग्रहविस्तरेण
प्रोक्त्वाऽथ वीरान्विरराम भीमः॥ 12-165-41(71665)
ततो मुहूर्तादथ धर्मराजो
वाक्यानि तेषामनुचिन्त्य सम्यक्।
उवाच वाचाऽवितथं स्मयन्वै
बहुश्रुतो धर्मभृतां वरिष्ठः॥ 12-165-42(71666)
निःसंशयं निश्चितसर्वशास्त्राः
सर्वे भवन्तो विदितप्रमाणाः।
विज्ञातुकामस्य ममेह वाक्य
मुक्तं यद्वो नैष्ठिकं तच्छ्रुतं मे।
इहानुवंशं गदतो ममापि
वाक्यं निबोधध्वमनन्यभावाः॥ 12-165-43(71667)
यो वै न पापे निरतो न पुण्ये
नार्थे न धर्मे मनुजो न कामे।
विमुक्तदोषः समफल्गुसारो
विमुच्यते दुःखसुखात्स सिद्धः॥ 12-165-44(71668)
भूतानि जातीमरणान्वितानि
जराविकारैश्च समन्वितानि।
भूयश्च तैस्तैरुपसेवितानि
मोक्षं प्रशंसन्ति न तं च विद्मः॥ 12-165-45(71669)
स्नेहेन बद्धस्य न सन्ति तानि
चैवं स्वयंभूर्भगवानुवाच।
बोधाय निर्वाणपरा भवन्ति
तस्मान्न कुर्यात्प्रियमप्रियं च॥ 12-165-46(71670)
एतच्च मुख्यं न तु कामकारो
यथा नियुक्तोऽस्मि तथा करोमि।
भूतानि सर्वाणि विधिर्नियुङ्क्ते
विधिर्बलीयानिति वित्त सर्वे॥ 12-165-47(71671)
न कर्मणाऽप्नोत्यनवाप्यमर्थं
यद्भावि तद्वै भवतीति विद्मः।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं
तस्माददो लोकहिताय गुह्यम्॥ 12-165-48(71672)
वैशम्पायन उवाच। 12-165-49x(5852)
तदग्र्यबुद्धेर्वचनं मनोनुगं
समस्तमाज्ञाय तथाहि हेतुमत्।
तदा प्रणेदुश्च जहर्षिरे च ते
कुरुप्रवीराय च चक्रिरेऽञ्जलिम्॥ 12-165-49(71673)
सुचारुवर्णाक्षरशब्दभूषितां
मनोनुगां निर्गतवाक्यकण्टकाम्।
निशम्य तां पार्थिवभाषितां गिरं
पार्थस्य सर्वे प्रणता बभूवुः॥ 12-165-50(71674)
तथैव राजा प्रशशंस् वीर्यवान्
पुनश्च पप्रच्छ सरिद्वरासुतम्।
धर्मार्थकामेषु विनिश्चयज्ञं
ततः परं धर्ममहीनचेतसम्॥ ॥ 12-165-51(71675)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः॥ 165॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-165-3 त्रिवर्गविजयाय कामक्रोधलोभानां जयाय॥ 12-165-12 अव्यतिक्रमः मर्यादा॥ 12-165-16 निस्तन्तवः नैष्ठिकब्रह्मचारिणः॥ 12-165-17 श्मश्रुला हीनिषेविण इति झ. पाठः॥ 12-165-20 वचनं शुककण्वयोरिति ड.द.पाठः॥ 12-165-25 अनर्थस्य अर्थहीस्य। अधर्मिणः धर्महीनस्य॥ 12-165-27 अत्र धर्मार्थयोः समत्वेऽपि धर्मस्य पूर्वत्वाद्विदुरमतमेवैतदीषद्भेदेन दर्शितम्॥ 12-165-35 उदश्वितः तक्रात्॥ 12-165-37 अकामतः कामं विना। केवलार्थात्स्वन्नं मृष्ठान्नं नास्ति॥ 12-165-39 परिस्वास्थितस्य परितः खाता परिखा। सर्वतो मूलशोध इत्यर्थः। तत्र स्थितस्य अनृशंसमनिष्टुरम्॥ 12-165-40 तयोस्तु दाक्ष्यं प्रवदन्तीति झ. पाठः॥ 12-165-43 नैष्ठिकं सिद्धान्तरूपम्। एतेन पूर्वे सर्वे पूर्वपक्षा एवेत्युक्तम्॥ 12-165-48 अर्थं मोक्षम्। लोकहितायं मोक्षाय। त्रिवर्गहीनोऽपि गुह्यमर्थं रहस्यं ज्ञानं विन्दते लभते पूर्वोक्तोऽधिकारी॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|